Title
पौराणिकसन्दर्भे नारीचरित्र चित्रणम्
Abstract
पौराणिकसन्दर्भे स्त्रीचरित्रचित्रणम्
ShambhuNath Ghosh
M.Phil student of Rashtriya Sanskrit vidyapeetha
Mail – shabhunath.ghosh95@gmail.com
Cell – 6300576518
चतुर्दशविद्यासु पुराणशास्त्रं प्रणवस्वरुपाय कल्पते। वराहपुराणे उल्लिखितमस्ति यत् काञ्चीराजस्य पुत्री चतुःषष्ठी-कलासु नैपुण्यमधिगतवती रूपयौवनसम्पन्ना सर्वार्थकार्यकुशला सर्वशास्त्रविचक्षणा चासीत्।
चतुःषष्ठीकलायुक्ता कोकिला सुखस्वरा।
कलिङ्गराजपुत्रेण विधिना तु विवाहिता।।
स्त्रीणां विषये श्रीमद्भागवतपुराणेऽपि चित्रलेखायाः वर्णनप्रसङ्गेऽप्युक्तं यदासां चित्रलेखनसामर्थ्यं राजनीति-सैन्यशिक्षादिकर्मस्वपि अप्रतिमं नैपुण्यमासीत् तद्यथा-
स्त्रियोऽपि यत्र युद्धेयुः किं पुनर्वृष्णिपुङ्गवाः।
कल्किपुराणेऽपि कल्किना सह युद्धप्रसङ्गे उल्लिखितमस्ति यत् –
तेषां स्त्रीयो रथारूढा गजारूढा विहङ्गमान्।
समारूढा इत्यारूढा खरोष्ट्रवृषवाहना।।
योद्धुं समाययुस्त्यकत्वा पत्यपत्य सुखाश्रयान्।
रूपवत्यो युवत्योऽतिबलवत्यः पतिव्रताः।।
श्रीमद्भागवतपुराणकालीनसमाजे नारीचरित्रम्
परिवारः शब्दस्य अर्थः भवति कुटुम्बादिः। सामाजिकजीवनस्य सूत्रपातोऽपि पारिवारिकजीवने भवति एतत्तु चिरन्तनसत्यं विद्यते।भागवतकालीने समाजेऽपि पारिवारिकसंघटनस्यापि श्रीमता महर्षिणा वेदव्यासेन प्रायः सुखमयं चित्रणं कृतम्। परन्तु मनुष्याणां राज्ञां ऋषीणाञ्च विलासप्रियता, कामुकमनोवृत्तिः, बहुविवाहप्रथा चापि न विस्मरणीयाः। याभिः पारिवारिकं जीवनं विषमयम् अपि जातम्। महर्षेः कश्यपस्य द्वे पत्न्यौ आस्तां दिति,अदिति च। तयोः स्व स्वाधिकारप्राप्त्यर्थं देवासुरसंग्रामः अभवत्। सममेव पत्न्याः स्थानं समाजे सम्मानीयमासीत्। तथापि पतिरपि क्वचित् प्राणप्रियायै पत्न्यै महान्तं त्यागमपि कर्तुमुद्यतो भवति स्म। अनेन ज्ञायते तदा बहुविवाहप्रथा प्रचलितासीत्। यदा पुत्राणां मृत्युः अभवत् तदा द्रौपदी दुःखिता सन् विलपति, तदा अर्जुनः तां सान्त्वयन् कथयति-
तदा शुचस्ते प्रमृजामि भद्रे यद् ब्रह्मबन्ध्योः शिर आततायिनः।
गाण्डीवमुक्तैर्विशिखैरूपाहरे त्वाक्रम्य यत्स्नास्यसि दग्धपुत्रा।।
अर्थात् हे कल्याणी! अहं तव अश्रूणि तदा दूरीकरिष्यामि यदा आवयोः पुत्रस्य आततायिनः ब्राह्मणाधमस्य शिरः गाण्डीवधनुषैः बाणैः कार्त्तयित्वा उपाहारस्वरूपं तुभ्यं दास्यामि। अन्यच्च पुत्राणां अन्त्येष्टिक्रियानन्तरं त्वं तस्योपरि पादंसंस्थाप्य स्नानं करिष्यसि।
ग्रन्थेष्वपि दृश्यते यत् भारतीयमातापित्रोः सर्वसन्ततेः उपरि ममतास्नेहः समानमेव। दुहिता पितृकुलात् बहिः गत्वापि स्वव्यक्तित्वं स्पष्टं करोति स्म। पुत्रवत् सापि मातापित्रोः अज्ञान्तर्गते चीरवसतिस्म। परन्तु तस्मिन् समये तदुपरि मातापित्रोः शासनम् अधिकं कठोरं नासीत्। महाराजस्य मनोः पुत्री देवहुतिः अपि स्वस्य योग्यस्य पत्युः अभिलाषां कुर्वती आसीत्, तदा महर्षि मनुः स्वकन्यायोग्यं मुनिं कर्दमं ज्ञात्वा तं कथयति–
प्रियव्रतोत्तानपदोः स्वस्येयं दुहिता मम।
अन्विच्छति पतिं युक्तं वयः शीलगुणादिभिः।।
यदा तु भवतः शीलश्रुतरूपवयोगुणान्।
अशृणोन्नारदादेषा त्वय्यासीत्कृतनिश्चया।।
अर्थात् इयं मम कन्या प्रियव्रतस्य उत्तानपादस्य भगिनी अस्ति। अवस्थाशीलगुणादौ स्वस्य योग्यपतिं प्राप्तुमेषा इदानीमभिलषति। यतः इयं नारदमुखेन भवतः शीलविद्यायुर्गुणादीनां वर्णनं श्रुतवती।अतः सा भवन्तं पतित्वेन इच्छति स्म। एव़ञ्च महर्षिः मनुरपि महाराज्ञ्याः शतरूपायाः राजकुमार्य्याः देवहूतेः अनुमतिं मत्वा महर्षिणे कर्दमाय स्वपुत्र्याः दानम् अकरोत्। महाराज्ञी शतरूपा प्रेम्णा स्वपुत्रयै जामात्रे च सुन्दराणि वस्त्राभूषणानि दत्तवती। महर्षिः मनुः स्वपुत्रीं तद्गृहप्रेषणसमये प्रेम्णा उत्कंठितो भूत्वा तां स्वहृदयेन योजयित्वा रुदति, अश्रुवशात् देवहूत्याः शिरकेशाः आर्द्राः भवन्ति।
सोऽनुज्ञात्वा व्यवसितं महिष्या दुहितुः स्फुटम्।
तस्मै गुणगणादयाय ददौ तुल्यां प्रहर्षितः।।
शतरूपा महाराज्ञी परिवर्हान्महाधनान्।
दाम्पत्योः पर्यदात्प्रीत्या भूषावासः परिच्छदान्।
प्रत्तां दुहितरं सम्राट सदृक्षाय गतव्ययः।
उपगुह्य च बाहुभ्यामौत्कण्ठयोन्मथिताशयः।।
कन्यां प्रति मातापित्रोः स्नेहः सम्यक् आसीत्। समाजे ताः स्वकन्यात्वेन पुनीताः मन्यते स्म। प्रस्थानसमये कन्यादर्शनं कन्यापूजनं वा स्वस्त्ययनस्य मङ्गलदायकमासीदिति जनाः मन्यन्ते स्म। परिवारे मातापितरौ प्रति आदरभावना किञ्च मातृषु च पारस्परिकप्रेम आसीत्। क्वचित् दुहितृनां विषये मातापित्रोः विचाराः परस्परं विपरीताः अपि अभवन्। यथा रूक्मिणः बन्धुजनाः अभिलषन्ति स्म यत् अस्माकं भगिन्याः विवाहः श्रीकृष्णेन सह भवेत् परन्तु रूक्मी श्रीकृष्णमतीव द्वेषं करोति स्म।
सः तां श्रीकृष्णेन सह विवाहकरणेन अवारयत्। तथा च सः स्वभगिन्याः कृते शिशुपालमेव योग्यं वरमुचितं वा अमन्यत।
Cite This Article
"पौराणिकसन्दर्भे नारीचरित्र चित्रणम्", International Journal of Emerging Technologies and Innovative Research (www.jetir.org), ISSN:2349-5162, Vol.6, Issue 1, page no.399-403, January-2019, Available :
http://www.jetir.org/papers/JETIR1901955.pdf
ISSN
2349-5162 | Impact Factor 7.95 Calculate by Google Scholar
An International Scholarly Open Access Journal, Peer-Reviewed, Refereed Journal Impact Factor 7.95 Calculate by Google Scholar and Semantic Scholar | AI-Powered Research Tool, Multidisciplinary, Monthly, Multilanguage Journal Indexing in All Major Database & Metadata, Citation Generator
Cite This Article
"पौराणिकसन्दर्भे नारीचरित्र चित्रणम्", International Journal of Emerging Technologies and Innovative Research (www.jetir.org | UGC and issn Approved), ISSN:2349-5162, Vol.6, Issue 1, page no. pp399-403, January-2019, Available at : http://www.jetir.org/papers/JETIR1901955.pdf
Publication Details
Published Paper ID: JETIR1901955
Registration ID: 196242
Published In: Volume 6 | Issue 1 | Year January-2019
Page No: 399-403
Country: KALAPET, Pondicherry, India .
Area: Arts
ISSN Number: 2349-5162
Download Paper / Preview Article
Preview This Article
Downlaod
Click here for Article Preview