UGC Approved Journal no 63975(19)
New UGC Peer-Reviewed Rules

ISSN: 2349-5162 | ESTD Year : 2014
Volume 13 | Issue 3 | March 2026

JETIREXPLORE- Search Thousands of research papers



WhatsApp Contact
Click Here

Published in:

Volume 13 Issue 3
March-2026
eISSN: 2349-5162

UGC and ISSN approved 7.95 impact factor UGC Approved Journal no 63975

7.95 impact factor calculated by Google scholar

Unique Identifier

Published Paper ID:
JETIR2603506


Registration ID:
577733

Page Number

f31-f36

Share This Article


Jetir RMS

Title

Developing and discussing the values ​​of human builders through education

Abstract

“अविद्याद्यशुभगुणानां परित्यागपूर्वकं विद्यादिशुभगुणानां स्वीकारेण सदानन्दमयजीवनयापनं नाम शिक्षा अथवा शीलनिर्माणमेव शिक्षा” इति महर्षिदयानन्दसरस्वतिमहाभागाः शिक्षां पर्यभाषिषत । ईदृश्यः बह्व्यः परिभाषाः यद्यपि बहुभिः महात्मभिः प्रादायिश्अत तथापि आहत्य शिक्षया मानवस्य सर्वाङ्गिकविकासो जायते इत्यत्र कोऽपि न विप्रतिपद्यते । शुभगुणा एव मानवं शोभनव्यक्तित्वमन्तं कुर्वन्ति इति भङ्ग्यन्तरेण उच्यते । मानवमात्रेण अवश्यं सम्पाद्याः एते शुभगुणाः के ? के च त्याज्याः अशुभगुणाः इति चिन्तनीयम् । सद्गुणाः दैवीसम्पदः इत्यपि भगवद्गीतायाम् उच्यते । ते च गुणाः गीतायाम् इत्थं प्रोक्ताः अभयं सत्त्वशंशुद्धिः - - - - - - - - अद्रोहो नातिमानिता । इति । एते गुणाः तद्वतः जनस्य गुरुत्वम् अथवा गौरवम् अथवा मूल्यम् वर्धयन्ति इत्यतः एतान् मूल्यानि इति समाजः कीर्तयति । एते गुणाः इत्थं मानवस्य मानं वर्धयन्ति इत्यतः गीतायां दैवी सम्पदः इत्युच्यन्ते । एते गुणाः केषुचित् सहजतया जन्मना सहैव भिन्नभिन्नमात्रया भवन्ति । कैश्चित् एते गुणाः शिक्षया मूलतः एव उपार्जनीयाः भवन्ति । कैश्चित् कस्याञ्चिन्मात्रायां विद्यमानाः गुणाः शिक्षया विकासनीयाः भवन्ति । अतः शिक्षाक्षेत्रे ईदृशमूल्यानां विकासाय अनुकूलं शिक्षास्वरूपं चिन्तनीयम् भवति । यथा मूल्यत्वेन व्यवह्रियमाणानां सद्गुणानां शिक्षया विकासः साधनीयः तथैव दुर्गुणानां निरासोऽपि कर्तव्यो भवति । भगवद्गीतायां तादृशाः दुर्गुणाः आसुरीसम्पदः इत्युच्यन्ते । ते च यथा – दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च । अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ एताः दम्भाद्याः आसुरीसम्पदः दुर्गुणाः इत्युच्यन्ते याश्च अस्माभिः त्याज्याः । एताः तूष्णीं अस्मान् न परित्यजन्ति । शिक्षाव्यवस्थायाम् एतेषां दुर्गुणानां निरासाय उपायाः चिन्त्यन्ते । अतः अस्मिन् शोधपत्रे अहं शिक्षाक्षेत्रे मानवनिर्मातॄणाम् मूल्यानां विकासाय किं कर्तव्यमिति विमर्शात्मकं चिन्तनं व्यधासिषम् यदग्रे तत्र भवन्तो भवन्तः पठितुमर्हन्ति ।

Key Words

मूल्यम्, शिक्षा, व्यक्तित्वम्, विकासः, दैवीसम्पत्, आसुरी सम्पत्, सत्त्वसंशुद्धिः, नातिमानिता

Cite This Article

"Developing and discussing the values ​​of human builders through education", International Journal of Emerging Technologies and Innovative Research (www.jetir.org), ISSN:2349-5162, Vol.13, Issue 3, page no.f31-f36, March-2026, Available :http://www.jetir.org/papers/JETIR2603506.pdf

ISSN


2349-5162 | Impact Factor 7.95 Calculate by Google Scholar

An International Scholarly Open Access Journal, Peer-Reviewed, Refereed Journal Impact Factor 7.95 Calculate by Google Scholar and Semantic Scholar | AI-Powered Research Tool, Multidisciplinary, Monthly, Multilanguage Journal Indexing in All Major Database & Metadata, Citation Generator

Cite This Article

"Developing and discussing the values ​​of human builders through education", International Journal of Emerging Technologies and Innovative Research (www.jetir.org | UGC and issn Approved), ISSN:2349-5162, Vol.13, Issue 3, page no. ppf31-f36, March-2026, Available at : http://www.jetir.org/papers/JETIR2603506.pdf

Publication Details

Published Paper ID: JETIR2603506
Registration ID: 577733
Published In: Volume 13 | Issue 3 | Year March-2026
DOI (Digital Object Identifier):
Page No: f31-f36
Country: Sringeri, Karnataka, India .
Area: Other
ISSN Number: 2349-5162
Publisher: IJ Publication


Preview This Article


Downlaod

Click here for Article Preview

Download PDF

Downloads

00010

Print This Page

Current Call For Paper

Jetir RMS