Abstract
छात्रस्य मापयितुं योग्यायाः उपलब्धेः अङ्कैः मापनमेव मूल्याङ्कनम् इत्युच्यते । इत्युक्ते लिखितपरीक्षायाः माध्यमेन वा वाक्परीक्षायाः माध्यमेन वा छात्राय अङ्काः दीयन्ते किल, एषा अङ्कदानप्रक्रिया मूल्याङ्कनम् इत्युच्यते । अन्यैः शब्दैः इत्थं वक्तुं शक्यते यत् – छात्रः अध्ययनेन यदधिगमं प्राप्तवान् अस्ति तत् तस्य मूल्यम् अस्ति । तस्य मूल्यस्य परीक्षायाः माध्यमेन अङ्कनम् मूल्याङ्कनम् इत्युच्यते ।
अङ्कैः मापयितुम् अशक्याः बहवो हि मनोवैज्ञानिकाः गुणाः छात्रस्य भवन्ति । ते गुणाः शिक्षणमाध्यमेन सम्पादिताः भवन्ति । किन्तु तेषां गुणानाम् अङ्कैः अङ्कनं कर्तुं न शक्यते । यथा छात्रस्य चरित्रम्, अनुशासनम्, समयपरिपालनम्, कार्यदक्षता, भ्रातृत्वम्, सहयोगभावना, नायकत्वगुणः इत्यादयः । ईदृशानाम् अङ्कैः मापयितुम् अशक्यानां गुणानां मापनं कथं कर्तव्यम् ? तदर्थं शिक्षाविदः मूल्याकलनम् इति तत्वम् आविष्कृतवन्तः । अङ्कैः मापयितुम् अशक्यानां गुणानां शब्दैरेव विवरीतुं कञ्चन क्रमं शिक्षाविदः प्रतिपादयन्ति यस्य च नाम भवति मूल्याकलनम् इति । इत्थम् अङ्कैः मापयितुम् अशक्यानां शब्दैः व्याख्यातुं च शक्यानां छात्रस्य गुणानां मापनं मूल्याकलनम् इत्युच्यते इति सारतः ज्ञायते ।
एतत् मूल्याङ्कनं वा मूल्याकलनं वा छात्राधिगमस्य छात्रव्यक्तित्वस्य वा परिचायकं भवति इति सामान्यतः वयं जानीमः । इत्युक्ते सत्रान्ते छात्रस्य योग्यतां ज्ञातुं क्रियमाणा परीक्षाप्रक्रिया एव मूल्याङ्कनम् इति धारणा सामान्या वर्तते । किन्तु सम्प्रति मूल्याङ्कनमूल्याकलनयोः विषये एतस्मात् बहु ऊर्ध्वं गत्वा शिक्षाविशेषज्ञाः चिन्तनं कृतवन्तः ।
मूल्याङ्कनम् मूल्याकलनञ्च साम्प्रतं न केवलं छात्रस्य क्रियते, अपि तु अध्यापकस्य, प्रधानाध्यापकस्य, संस्थायाः, कर्मचारिणः, उद्योगार्थिनः, कृष्यादिक्षेत्रस्य, वाणिज्यप्रौद्योगिक्यादिक्षेत्राणां विकासस्य चेति अगणितानां क्षेत्राणाम् क्रियते । उद्देश्यानाम् आधारेण, क्षेत्राणाम् आधारेण, मूल्याङ्कनीयविषयस्य प्रकृत्याधारेण, प्रतिक्रियाधारेण, मूल्याङ्कितस्य विषयस्य पुनर्व्याख्यानाधारेण (Interpretation) च मूल्याकलनमूल्याङ्कनयोः वर्गीकरणं क्रियते । शोधक्षेत्रे विशिष्य मूल्याङ्कनमूल्याकलनयोः बहूनि उपकरणानि उपयुज्यन्ते । यथा – मौखिकपरीक्षा, प्रायोगिकपरीक्षा, लिखितपरीक्षा, उपलब्धिपरीक्षणम्, परिसूची, साक्षात्कारः, निर्धारणमापिनी इत्यादीनि । अवलोकनविधिः, अन्तर्दर्शनविधिः, प्रक्षेपीयविधिः, नैदानिकपरीक्षणविधिः, उपचारात्मकविधिः चेति विधयः मूल्याङ्कनमूल्याकलनयोः निमित्तं भवन्ति । अत्र उपचारात्मकविधिः यद्यपि परीक्षार्थं नास्ति तथापि प्रारूपात्मकस्य मूल्याकलनस्य सन्दर्भे (अधिगमार्थं मूल्याकलनम्) छात्रस्य अधिगमविकासाय अयं विधिः उपचारात्मकरूपेण उपयुज्यते, अन्यत्र च क्वचित् । एतदतिरिच्य अभिनवाः केचन मूल्याङ्कनविधयः व्यवहारपथे समागताः सन्ति, यथा – आत्ममूल्याकलनम्, सहयोगिमूल्याकलनम्, सङ्गणकीयविज्ञानाधारितं मूल्याकलनम्, अन्तर्जालाधारितं मूल्याकलनम् चेति । एवं सति अस्मिन् विषये विस्तृतरूपेण विचारप्रस्तुतये अस्मिन् शोधलेखे प्रयासो विधीयते ।